वांछित मन्त्र चुनें

उ॒त मा॒ता बृ॑हद्दि॒वा शृ॑णोतु न॒स्त्वष्टा॑ दे॒वेभि॒र्जनि॑भिः पि॒ता वच॑: । ऋ॒भु॒क्षा वाजो॒ रथ॒स्पति॒र्भगो॑ र॒ण्वः शंस॑: शशमा॒नस्य॑ पातु नः ॥

अंग्रेज़ी लिप्यंतरण

uta mātā bṛhaddivā śṛṇotu nas tvaṣṭā devebhir janibhiḥ pitā vacaḥ | ṛbhukṣā vājo rathaspatir bhago raṇvaḥ śaṁsaḥ śaśamānasya pātu naḥ ||

पद पाठ

उ॒त । मा॒ता । बृ॒ह॒त्ऽदि॒वा । शृ॒णो॒तु॒ । नः॒ । त्वष्टा॑ । दे॒वेभिः॑ । जनि॑ऽभिः । पिता॑ । वचः॑ । ऋ॒भु॒क्षाः । वाजः॑ । रथः॒ऽपतिः॑ । भगः॑ । र॒ण्वः । शंसः॑ । श॒श॒मा॒नस्य॑ । पा॒तु॒ । नः॒ ॥ १०.६४.१०

ऋग्वेद » मण्डल:10» सूक्त:64» मन्त्र:10 | अष्टक:8» अध्याय:2» वर्ग:7» मन्त्र:5 | मण्डल:10» अनुवाक:5» मन्त्र:10


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (उत) और (बृहद्दिवा) महती दीप्तिवाला (जनिभिः) अपनी उत्पादन शक्तियों द्वारा (माता) जगत् का निर्माणकर्त्ता (त्वष्टा पिता) कर्मानुरूप शरीररचयिता पिता परमात्मा (नः-वचः शृणोतु) हमारे प्रार्थनावचन को सुने-स्वीकार करे (ऋभुक्षाः) ऋभुओं-मेधावी जनों को बसानेवाला (वाजः) बलवान् (रथस्पतिः) रमणीय मोक्ष का स्वामी-मोक्षदाता (भगः) भजनीय (रण्वः) रमणीय (शशमानस्य शंसः) प्रशंसमान-स्तुति करनेवाले का स्तुति करने योग्य (नः पातु) हमारी रक्षा करे ॥१०॥
भावार्थभाषाः - परमात्मा अपनी उत्पादनशक्तियों द्वारा जगत् की माता और पिता है। वह कर्मानुसार शरीर का निर्माण करता है। मेधावी जनों को बसाने वाला, स्तुति करनेवालों का स्तुतियोग्य मोक्षदाता है ॥१०॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (उत)  अपि च (बृहद्दिवा) महद्दीप्तिका (माता) जगन्माता-जगन्निर्माता (त्वष्टा पिता) कर्मानुरूपं शरीररचयिता पिता परमात्मा (जनिभिः) स्वोत्पादन-शक्तिभिः (नः-वचः शृणोतु) अस्माकं प्रार्थनावचनं शृणोतु-स्वीकरोतु (ऋभुक्षाः) ऋभून् मेधाविनः क्षाययति निवासयति [ऋ० १।१११।४ दयानन्दः] (वाजः) बलवान् ‘मतुब्लोपश्छान्दसः’ (रथस्पतिः) रमणीयमोक्षस्य स्वामी मोक्षदाता (भगः) भजनीयः (रण्वः) रमणीयः (शशमानस्य शंसः) प्रशंसमानस्य स्तोतुः शंसनीयः स्तोतव्यः (नः-पातु) अस्मान् रक्षतु ॥१०॥